Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकानुमाने पुनरसिद्धिशङ्कापरिहारौ

§87Mūla
प्रतियोगिपटत्वं प्रति पटस्याश्रयत्वादिति चेदत एव हेतुर्विशेषितः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति । पटे पटत्वात्यन्ताभावसद्भावेऽपि तस्य पटत्वरूपप्रतियोगिसमानाधिकरणत्वेन प्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नतया साधनाभावसद्भावात् ॥
अनवच्छिन्नान्तविशेषणमव्याप्यवृत्त्यभावमात्रवारकमिति मन्वानो दर्शयति – नन्विति ॥ न च पटे पटत्वाधिकरणत्वस्यापि मिथ्यात्वेन तदभावसत्त्वान्न व्यतिरेकव्यभिचार इति वाच्यम् । व्यतिरेकिणि प्रतियोगिव्यधिकरणसाधनाभावनिरूपितव्याप्तेरेव प्रयोजकत्वात् । पटे पटत्वाधिकरणत्वाभावस्य च प्रतियोगिसमानाधिकरणत्वात् । अन्यथा पृथिवीत्वाभावव्यापकाभावप्रतियोगिसंयोगवत्त्वेन जलादौ पृथिवीत्वसिद्धिप्रसङ्गात् ॥ अनवच्छिन्नान्तदानादेव नायं दोष इति समाधत्ते– अत एवेति ॥ एतादृशदोषप्रसङ्गादपीत्यर्थः । हेतुर्हेतुघटकाभावःप्रतियोगीति

Loading…