Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

प्रथमानुमाने साध्यविचारः

§20Mūla
अनुमानं च विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते, आत्मत्वात् । परमात्मवत् ।
जीवपरमात्मनोर्व्यावहारिकभेदाभ्युपगमात् सामान्यतो भेदनिषेधे बाधः स्यादतः– परमार्थत इति ॥ न चैवं पारमार्थिकभेदप्रसिद्ध्या साध्यप्रसिद्धिरिति वाच्यम् । पारमार्थिकत्वेन भेदाभावस्य साध्यत्वात् । तन्मते व्यधिकरणधर्मावच्छिन्नाभावसत्त्वेन साध्यप्रसिद्धेः । एतेन पारमार्थिकत्वमभेदविशेषणमित्यपास्तम् । उक्तबाधानिस्तारात् । न च प्रतिभासिकाभेदसिद्ध्यार्थान्तरमिति वाच्यम् । पारमार्थिकाभेदस्यैव साध्यत्वात् । परमार्थतो न भिद्यन्त इत्यनेन पारमार्थिकतादात्म्यस्यैव साध्यत्वं विवक्षितमिति तु न सत् । व्यवहारतोऽपि न भिद्यन्त इति वक्ष्यमाणाभासासाम्याननुगुणत्वात् । तत्र व्यावहारिकस्य परमात्मतादात्म्यस्य दृष्टान्ते परमात्मन्यसत्त्वेन साध्यत्वासम्भवात् । सामान्यतः पारमार्थिकभेदाभावस्य सिद्धान्तिनं प्रत्यसिद्धेरतः परमात्मप्रतियोगिकत्वं भेदविशेषणम् ॥

Loading…