Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदमिथ्यात्वसाधकानुमानविवरणम्

§26Mūla
मिथ्यात्वं चाधिष्ठानयाथात्म्यज्ञाननिवर्त्यत्वम् ।
नन्वत्र मिथ्यात्वमसत्त्वं चेदपसिद्धान्तः, जगतः सदसद्विलक्षणत्वाङ्गीकारादत आह– मिथ्यात्वं चेति । यद्वा सदसद्विलक्षणत्वरूपमिथ्यात्वसाधने परं प्रति साध्यप्रसिद्धिरत आह– मिथ्यात्वं चेति । यद्वा यदि सत्त्वानधिकरणत्वं मिथ्यात्वं तदा निर्धर्मकब्रह्मवत् सद्रूपस्यापि भेदस्य सत्त्वाधिकरणत्वनिषेधसम्भवादर्थान्तरमित्यत आह– मिथ्यात्वं चेति । यद्वा बाध्यत्वमेव हि मिथ्यात्वम् । तच्चान्यथा विज्ञातस्य सम्यग्विज्ञातत्वमेवेति सिद्धसाधनम् । क्षणिकत्वादिना विज्ञातस्य जगतः स्थायित्वादिना विज्ञातत्वाभ्युपगमादत आह – मिथ्यात्वं चेति । यद्वा, अज्ञानतत्कार्यान्यतरत्वरूपमिथ्यात्वे साध्ये परं प्रति दृष्टान्तस्य साध्यवैकल्यं, तन्मतेऽत्यन्तासतश्चन्द्रभेदादेरज्ञानतत्कार्यान्तर्भावाभावादात आह– मिथ्यात्वं चेति ॥ निवर्त्यत्वमात्रस्य मुद्गरप्रहारादिना घटादेरिव सत्त्वपक्षेऽप्युपपत्तेर्ज्ञाननिवर्त्यत्वमिति । एतदप्युत्तरज्ञाननिवर्त्यपूर्वज्ञानवत्सत्त्वाविरोधीत्य अधिष्ठानपदम् । अधिष्ठानयाथात्म्यज्ञाननिवर्त्यस्य शुक्तिरजतादेः सत्त्वादर्शनेऽपि तद्भ्रमनिवर्त्यस्य सत्त्वसम्भवादर्थान्तरमित्यतो याथात्म्येति । नच मायिमते चन्द्रभेदादेः प्रातिभासिकत्वेन निवृत्तिसम्भवेऽपि सिद्धान्तिमते तुच्छत्वेन तस्य निवृत्त्ययोगाद् दृष्टान्तवैकल्यमिति वाच्यम् । यतस्तन्निवर्त्यत्वं तदधीनसिद्धिकाभावप्रतियोगित्वम् । चन्द्रभेदादेरभावश्चन्द्रैकत्वज्ञानाधीनसिद्धिक इत्यदोषः ॥

Loading…