Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकानुमाने स्वमतरीत्या हेत्वप्रसिद्धिशङ्कापरिहारः

§89Mūla
प्रतियोगिपटत्वं प्रति पटस्याश्रयत्वादिति चेदत एव हेतुर्विशेषितः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति । पटे पटत्वात्यन्ताभावसद्भावेऽपि तस्य पटत्वरूपप्रतियोगिसमानाधिकरणत्वेन प्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नतया साधनाभावसद्भावात् ॥
वस्तुतस्तु परमते अभावानामधिकरणात्मकत्वात् घटनिष्ठघटत्वाभावस्य प्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नत्वेऽपि पटनिष्ठाभावस्य तदनवच्छिन्नत्वमव्याहतमेव । न च प्रतियोगिसामानाधिकरण्यावच्छेदकीभूतघटत्वाभावत्वस्यैक्यान्न पटनिष्ठाभावस्य तदनवच्छिन्नत्वसम्भव इति वाच्यम् । अनुयोगिताविशेषरूपाभावत्वस्याभावभेदेन भिन्नत्वात् । अथवा प्रतियोगिसामानाधिकरण्यरूपं यदवच्छेदकम्, विशेषणं तदनवच्छिन्नत्वं तद्विशिष्टभिन्नत्वमिति यावत् । तदुपलक्षितभिन्नत्वस्य परमते पटवृत्तित्वविशिष्टघटत्वाभावादावभावेऽपि तद्विशिष्टभिन्नत्वमक्षतमेव । पटवृत्तित्वविशिष्टसंयोगाद्यभावे च न प्रतियोगिसामानाधिकरण्यविशिष्टभिन्नत्वमिति न कश्चिद्दोषः ॥

Loading…