Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

चैत्रशरीरपक्षकानुमानविवरणम्

§12Mūla
चैत्रशरीरं मैत्रशरीरस्वामिभिन्नस्वामिकं तद्विरुद्धचेष्टावत्त्वादित्यत्र व्यभिचारः । एकस्वामिकयोरपि घटपटयोर्विरुद्धचेष्टादर्शनात् । शरीरत्वेन हेतुविशेषणे दृष्टान्ताभावः ॥
चैत्रशरीरमिति ॥ अत्र तत्स्वामित्वं न तदवच्छिन्नभोगभोक्तृत्वम् । एकस्वामिकयोर्घटपटयोरित्यग्रिमग्रन्थविरोधात् । घटाद्यवच्छिन्नभोगप्रसिद्धेः । किन्तु स्वस्वामिभावव्यवहारनियामकः तत्सत्तानियामकत्वादिलक्षणो धर्मविशेषः ॥ यद्यपि तत्स्वामिभिन्नस्वामिकत्वं परमतेऽप्रसिद्धम् । तथापि प्रसिद्धघटादिसाधारणस्य तत्स्वामिभिन्नत्वस्यैव साध्यतावच्छेदकत्वान्न दोषः । साध्यता च स्वस्वामिकत्वसम्बन्धेन । अतः फलतश्चैत्रमैत्रात्मनोर्भेदसिद्धिः । घटादेस्तादृशसम्बन्धेन सिद्ध्ययोगात् ॥

Loading…