Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
चैत्रशरीरपक्षकानुमाननिराकरणम्
§13Mūla
चैत्रशरीरं मैत्रशरीरस्वामिभिन्नस्वामिकं तद्विरुद्धचेष्टावत्त्वादित्यत्र व्यभिचारः । एकस्वामिकयोरपि घटपटयोर्विरुद्धचेष्टादर्शनात् । शरीरत्वेन हेतुविशेषणे दृष्टान्ताभावः ॥
अत्र तद्विरुद्धचेष्टावत्त्वं तद्वृत्तिक्रियावत्त्वं, तत्क्रियाविजातीयक्रियावत्त्वं वेति मन्वानो दूषयति– इत्यत्रेति । व्यभिचारमुपपादयति– एकस्वामिकयोरिति ॥ मैत्रमात्रस्वामिकयोरित्यर्थः । तथा च मैत्रशरीरविरुद्धचेष्टावति घटादौ तत्स्वामिभिन्नस्वामिकत्वाभावात्, यो यद्विरुद्धचेष्टाश्रयः स तत्स्वामिभिन्नस्वामिक इति सामान्यव्याप्तौ घटविरुद्धचेष्टावति पटादौ तत्स्वामिभिन्नस्वामिकत्वाभावादपि व्यभिचार इति भावः । ननु शरीरत्वे सति तद्विरुद्धचेष्टावत्त्वमेव हेतुः । अतो नोक्तव्यभिचार इत्यत आह– शरीरत्वेनेति ॥ शरीरत्वविशिष्टनिरुक्तचेष्टावत्त्वस्य हेतुत्वेऽपीत्यर्थः ॥
यद्यपि साक्षात्प्रयत्नजन्यक्रियारूपचेष्टापदार्थविवक्षयैवोक्तदोषवारणसम्भवात् तादृशक्रियाश्रयत्वरूपशरीरत्वस्य पृथगुपादानमनुचितम् । न च शरीरत्वस्य जातित्वान्न गौरवमिति वाच्यम् । पृथिवीत्वादिना सङ्करात् । तथापि साङ्कर्यस्य जातिबाधकत्वानङ्गीकारे लाघवसम्भवाच्छरीरत्वं पृथगुपात्तम् ॥ दृष्टान्ताभाव इति ॥ तथाच व्याप्तिग्रहविरोधिव्यभिचारग्रहाभावेऽपि तत्कारणीभूतसहचारग्रहासम्भवेन व्याप्तिग्रहासम्भवान्नानुमानससम्भव इति भावः ॥