Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

विरुद्धधर्माधिकरणत्वानुमानविवरणम्

§14Mūla
विमतौ भिन्नौ विरुद्धधर्माधिकरणत्वात् । दहनतुहिनवदिति चेन्न । पारमार्थिकभेदसाधने अप्रसिद्धविशेषणत्वात् । अपारमार्थिकभेदसाधने सिद्धसाधनत्वात् । तस्मान्नानुमानम् भेदे मानमिति ॥
विप्रतिपन्नाशेषभेदसाधकानुमानप्रकारमाशङ्कते– विमताविति ॥ भिन्नत्वाभिन्नत्वाभ्यां विप्रतिपन्नौ जीवेश्वरावित्यर्थः । अत्र द्वित्वमविवक्षितम् । विमतत्वमात्रस्य पक्षतावच्छेदकत्वात् । भिन्नाविति मिथो भिन्नावित्यर्थः । विमतत्वव्याप्यधर्मावच्छिन्नप्रतियोगिताकभेदवन्ताविति यावत् । विरुद्धधर्माधिकरणत्वात् परस्परवृत्त्यभावप्रतियोगिधर्मवत्त्वात् । विमतत्वसमानाधिकरणाभावप्रतियोगिधर्मवत्त्वादिति यावत् ॥ अत्र यो यद्धर्मसमानाधिकरणाभावप्रतियोगिधर्मवान् स तद्धर्मव्याप्यधर्मावच्छिन्नप्रतियोगिताकभेदवानिति सामान्यव्याप्त्या दहनतुहिनोभयत्वाधिकरणदहनादिवृत्त्यभावप्रतियोगिशैत्यादिमत्तुहिनादेस्तदुभयत्वव्याप्यदहनत्वाद्यवच्छिन्नप्रतियोगिताकभेदवत्ववत् प्रकृतस्येश्वरादेरुक्तविमतत्वाधिकरणजीवादिवृत्त्यभावप्रतियोगिस्वातन्त्र्यादिमत्त्वेन तादृशविमतत्वव्याप्यजीवत्वाद्यवच्छिन्नप्रतियोगिताकभेदवत्त्वं सिद्ध्यतीत्याशयः ॥ यद्वा, अयं तद्भिन्नस्तन्निष्ठाभावप्रतियोगिधर्मवत्त्वात् । स चैतद्भिन्न एतन्निष्ठाभावप्रतियोगिधर्मवत्त्वात् । यो यन्निष्ठाभावप्रतियोगिधर्मवान् स तद्भिन्नो दहननिष्ठाभावप्रतियोगिशैत्याधिकरणतुहिनवदिति समूहालम्बनानुमाने तात्पर्यम् । तेन जीवेश्वरोभयं पक्षीकृत्य भेदमात्रसाधने घटादिभेदमादायार्थान्तरम्, परस्परभेदसाधनेऽपि तस्य प्रत्येकं जीवभेदादिरूपत्वांशे बाधः, एवं जीवविरुद्धधर्मवत्त्वादेः प्रत्येकं भागासिद्धिः, पक्षदृष्टान्तयोः साध्यहेत्वननुगमश्चेत्यादिदोषानवकाशः ॥

Loading…