Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

विरुद्धधर्माधिकरणत्वानुमाननिराकरणम्

§15Mūla
विमतौ भिन्नौ विरुद्धधर्माधिकरणत्वात् । दहनतुहिनवदिति चेन्न । पारमार्थिकभेदसाधने अप्रसिद्धविशेषणत्वात् । अपारमार्थिकभेदसाधने सिद्धसाधनत्वात् । तस्मान्नानुमानम् भेदे मानमिति ॥
अत्र पारमार्थिकत्वविशेषितस्तदविशेषितो वा भेदः साध्यः । आद्ये दोषमाह– पारमार्थिकेतिअन्त्ये – अपारमार्थिकेति ॥ पारमार्थिकत्वाविशेषितेत्यर्थः । न त्वपारमार्थिकत्वविशेषितेत्यर्थः । उभयाविशेषितभेदसाधनपक्षप्रतिक्षेपेण न्यूनतापत्तेः । स चापारमार्थिकत्वविशेषितो न वेत्यन्यदेतत् । आत्मभेदसाधकानुमाननिराकरणमुपसंहरति– तस्मादिति ॥ उक्तरीत्या भेदसाधकानुमानमात्रस्याभासत्वादित्यर्थः । भेदे जीवेश्वरभेदेऽनुमानं न प्रमाणमित्यर्थः ॥

Loading…