Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवेश्वरभेदे आगमनिराकरणम्

§16Mūla
'द्वा सुपर्णा', 'द्वे ब्रह्मणी' इत्याद्यागमो लोकसिद्धभेदानुवादकः । अनुवादश्च 'नेह नानास्ती'ति निषेधाय ।
अस्तु तर्हि द्वा सुपर्णेत्याद्यागम एवात्मभेदे प्रमाणम् । तत्र जीवेश्वराख्यपक्षिणोर्द्वे ब्रह्मणीत्यत्र परापरब्रह्मतया उक्तयोस्तयोरेव भेदव्याप्तद्वित्वश्रवणात् । तयोरन्यः, अनश्नन्नन्य इति साक्षादपि तयोर्भेदाभिधानात् । बह्वीः प्रजाः पुरुषात् सम्प्रसूता इति जीवानामापि नानात्वावगमादित्याशङ्क्याह– द्वा सुपर्णेति ॥ द्वौ सुपर्णावितियौकारस्याकारादेशः ॥ ननु भेदस्य मानान्तरासिद्धताया उक्तत्वात् कथमागमस्य तदनुवादकत्वमित्यतो लोकसिद्धेत्युक्तम् । लोकव्यवहारसिद्धेत्यर्थः । स च वक्ष्यमाणप्रमाणाविरोधादप्रमाणमेवेति भावः । नन्वनुवादमात्रेण कथं भेदस्य निरासः । अन्यथा दध्यादिरूपगुणविधानाय दध्ना जुहोतीत्यनूद्यमानयागादेरपि निरासप्रसङ्गादत आह– अनुवादश्चेतिनिषेधायेति ॥ ब्रह्मणि पारमार्थिकत्वाकारेण भेदनिषेधायेत्यर्थः । तथाच भेदानुवादस्य तन्निषेध एव तात्पर्यान्न तत्रागमस्य प्रामाण्यमिति भावः ॥

Loading…