Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदमात्रनिराकरणम्

§17Mūla
एतेन घटपटादिभेदे प्रमाणं निरस्तं वेदितव्यम् । प्रत्यक्षस्य भ्रान्तित्वेनाप्रमाणत्वात् । अत एव तन्मूलकानुमानादिरपि न प्रमाणम् ।
एवमात्मभेदं निरस्य भेदमात्रस्यापारमार्थिकत्वसिद्ध्यर्थमात्मानात्मनोरनात्मनां च मिथो भेदं दूषयति– एतेनेति ॥ भेदमात्रस्य नेह नानास्तीति निषिद्धत्वेनेत्यर्थः । घटपटादिभेद इति ॥ घटपटादिभिरात्मनस्तेषां च मिथो भेद इत्यर्थः । तर्हि घटपटौ भिन्नावित्यादिप्रत्यक्षस्य का गतिरत आह – प्रत्यक्षस्येति ॥ सम्भावितदोषस्य प्रत्यक्षस्य निर्दुष्टागमविरोधे सत्यप्रामाण्यस्यैव युक्तत्वादिति भावः । अत एव भेदग्राहिप्रत्यक्षस्य भ्रान्तित्वादेव । तन्मूलकेति ॥ तादृशप्रत्यक्षसंवादसापेक्षेत्यर्थः । अनुमानादिरित्यादिना पौरुषेयागमपरिग्रहः ॥ केवलस्यानुमानादेः शङ्कितप्रामाण्यकत्वेनासाधकत्वात् प्रत्यक्षादिप्रमाणसंवादेनैव प्रामाण्यं वाच्यम् । तस्य च प्रत्यक्षादेरप्रामाण्ये तत्समानविषयानुमानादिप्रामाण्यस्य दुर्लभत्वादिति भावः । व्याप्तिग्राहकसहचारप्रत्यक्षस्य भ्रमत्वान्न तन्मूलकानुमानादिः प्रमाणमित्यपि व्याचक्षते । तत्र यद्यपि वह्निवारिणोः सहचारभ्रमेऽपि पर्वतादौ वारिलिङ्गकवह्न्यनुमानस्य प्रामाण्यमस्ति । तथापि व्याप्तिपक्षधर्मताविरहे प्रामाण्यं दुरवधारणमित्याशयः ॥

Loading…