Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदे प्रत्यक्षसमर्थनम्

§18Mūla
अभेदे तु प्रत्यक्षं तावत्सुलभमेव । अहमित्येकाकारेणानुभवात् ।
एवमभेदे बाधकप्रमाणं निरस्य दार्ढ्याय त्रिविधमपि साधकप्रमाणं दर्शयति– अभेदे त्विति ॥ यत्त्वभेदे प्रमाणाभाव एव भेदे प्रमाणं भविष्यतीत्यत आह– अभेदे त्वितीति ॥ तच्चिन्त्यम् । तुल्यन्यायेन भेदे प्रमाणाभाव एवाभेदे प्रमाणमिति वक्तुं शक्यत्वात् । अभेदे प्रमाणाभावस्यानुमानविधयैव भेदसाधकतया तन्निरासावसर एव निरसनीयत्वाच्च ॥ नन्वात्मान्तरप्रतियोगिकभेदस्य प्रतियोग्यप्रत्यक्षेणाप्रत्यक्षत्वस्योक्तत्वात् कथं तदभावरूपाभेदस्य प्रत्यक्षत्वमित्यत आह– एकाकारेणेति ॥ एकवस्तुतादात्म्येनेत्यर्थः । अयं भावः । भेदाभावो हि प्रतियोगितादात्म्यम् । तथा चाहमित्येकाकारानुभवानामेकवस्तुविषयकत्वे लाघवेनैकचित्तादात्म्यावगाहिनोऽहमिति प्रत्यक्षस्य कथमभेदे प्रामाण्यासम्भव इति ॥

Loading…