Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

व्यावहारिकभेदसिद्ध्यर्थान्तरताशङ्कापरिहारौ

§102Mūla
अनुकूलतर्कस्यात्रैवो(ऽन्यत्रो)क्तत्वान्नोपाध्याभाससमानयोगक्षेमत्वाप्रयोजकत्वानि च ॥
त्रैकालिकत्वादिनेत्यादिनाऽनादित्वनित्यत्वपरिग्रहः ॥ तदयोगादिति ॥ त्रैकालिकत्वाद्ययोगादित्यर्थः । व्यावहारिकस्याविद्याकार्यत्वादिति भावः । नन्वेतावताऽप्यर्थान्तरत्वं दुर्वारमेव । यावत्कालवृत्तित्वरूपत्रैकालिकत्वस्य व्यावहारिकभेदेऽपि सम्भवात् । कालस्याप्यविद्याकार्यत्वेन तदभावे तदभावावश्यम्भावात् । एवं पूर्वोत्तरकालराहित्यरूपानादित्वनित्यत्वयोरपि सम्भवो द्रष्टव्यः ॥ मैवम् । प्रागभावाप्रतियोगित्वमनादित्वम् । ध्वंसाप्रतियोगित्वं नित्यत्वम् । तदुभयशालित्वं च त्रैकालिकत्वम् । न चैतद् व्यावहारिके सम्भवति । न च व्यावहारिकेऽप्यविद्यावदनादित्वमिष्यत इति वाच्यम् । स्वरूपतोऽनादित्वेऽविद्याकार्यत्वानुपपत्तेः । अन्यथा नित्यस्य निवृत्तिरित्यपि स्यात् । प्रतियोगितादात्म्याविद्यानधीनप्रतीतिकत्वरूपानादित्वविवक्षायामर्थान्तरशङ्कानवकाशाच्चेति दिक् ॥ ननूक्तानुमानेषु पक्षेतरत्वादिकमुपाधिः । अनुकूलतर्काभावे पक्षेतरत्वस्याप्युपाधित्वसम्भवात् । अत एव तादात्म्यानवच्छिन्नप्रतियोगिताकत्वेनाभावविशेषणादाभाससमानयोगक्षेमत्वमप्रयोजकत्वं चेत्यत आह- अनुकूलतर्कस्येति । घटपटाद्यभेदस्य पारमार्थिकत्वे घटपटादिस्वरूपं पारमार्थिकं स्यादित्यतिप्रसङ्गरूपस्यात्रैवोक्तत्वात् । अन्यत्रेति पाठे जडभेदाभावे मुक्तिसाङ्कर्यादिप्रसङ्गरूपस्य न्यायामृतादौ चोक्तत्वादित्यर्थः । इदमुपलक्षणम् । 'आत्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः' इत्यादयः श्रुतयोऽपि जडभेद उदाहर्तव्याः ॥

Loading…