Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदे प्रत्यक्षनिराकरणम्

§103Mūla
यदुक्तमभेदे प्रत्यक्षं प्रमाणमिति तदसत् । अहङ्कारस्य चिदचित्संवलनात्मकस्य त्वया भिन्नत्वाङ्गीकारेणाहंप्रत्ययस्य तदभेदेऽप्रमाणत्वात् ॥
एवं भेदे प्रमाणमुपपाद्य परोक्तमभेदप्रमाणं खण्डयति - यदुक्तमिति ॥ अहङ्कारस्येति ॥ अहम्प्रत्ययविषयस्यान्तःकरणावच्छिन्नचिद्रूपस्य शुद्धचिद्रूपत्वाभावान्न तत्प्रत्ययस्य शुद्धचिदैक्यप्रमाणत्वमिति भावः ॥

Loading…