Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदे प्रथमानुमाननिराकरणम्

§104Mūla
आद्यानुमानेऽवेद्यत्वरूपस्वप्रकाशत्वस्यास्माभिरनङ्गीकारादसिद्धिः । अबाध्यत्वं तर्ह्यात्मत्वमिति चेत्तर्ह्यस्माभिर्देहादेः स्वरूपेणाबाधितत्वाङ्गीकाराद्व्यभिचारः ॥
यदप्युक्तमनुमानानि चेत्यादि तदप्यसदित्याह - आद्यानुमान इति ॥ विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यनुमान इत्यर्थः । अत्र हेतुभूतमात्मत्वं स्वप्रकाशत्वमित्युक्तम् । तद्दूषयति - अवेद्यत्वेति ॥ प्रकाशाविषयत्वरूपस्य स्वेतरप्रकाशाविषयत्वरूपस्य वेत्यर्थः । अस्माभिरनङ्गीकारादित्यनेन स्वात्मकप्रकाशविषयत्वरूपस्वप्रकाशत्वस्य क्रियाकर्मविरोधेन परैरनङ्गीकारादसिद्धिरिति सूचितम् । इतोऽतिरिक्तस्वप्रकाशत्वं तु दुर्वचमेवेति भावः । तर्हि न स्वप्रकाशत्वमात्मत्वम् । अपि तर्ह्यन्यदेवेत्याशङ्कते - अबाध्यत्वमिति ॥ ननु देहादेरारोपितकर्तृत्वाद्याकारेण बाध्यत्वात् कथमबाध्यत्वमित्याशङ्कापरिहाराय स्वरूपेणेत्युक्तम् । अयं भावः । सर्वथाऽबाध्यत्वस्य हेतुत्वेऽसिद्धिः । आत्मनोऽप्यारोपिताकारेण बाध्यत्वात् । अतः सत्त्वेनाबाध्यत्वं वाच्यम् । तच्च सत्त्वप्रकारकप्रमितिविषयत्वपर्यवसितं देहेन्द्रियादौ साध्यशून्येऽप्यस्तीत्यनैकान्त्यमिति ॥

Loading…