Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदे प्रथमानुमाननिराकरणम्

§104Mūla
न च तदपि पक्षतुल्यमिति वाच्यम् । त्वयापि देहात्माभेदस्य अध्यस्तत्वाङ्गीकारेण तदभेदस्यापारमार्थिकतया परमार्थतो न भिद्यन्त इति साध्याभावात् । भेदाभावस्यैवाभेदत्वात् ।
ननु देहादावप्यात्माभेदसाधनान्न दोष इत्याशङ्कां निराह- न चेति ॥ पक्षतुल्यं प्रकृतधर्मितुल्यं सन्दिग्धसाध्यकमिति यावत् । निश्चितसाध्याभाववति व्यभिचारस्यैव दोषत्वादिति भावः ॥ देहादेः पक्षतुल्यत्वमसिद्धम् । तत्रात्माभेदाङ्गीकारेऽपसिद्धान्तापत्तेरित्याह- त्वयाऽपीति ॥ अध्यस्तत्वेति ॥ अन्यथा देहात्मनोरितरेतराध्याससमर्थनानुपपत्तेरिति भावः । तदभेदस्य देहपरमात्माभेदस्यापारमार्थिकतया पारमार्थिकभेदाभावरूप- साध्याभावादित्यर्थः । नन्वभेदस्यापारमार्थिकत्वेऽपि कुतस्तादृशसाध्याभाव इत्यत आह- भेदाभावस्येति ॥ न चाभेदस्तादात्म्यम् । तच्च स्वरूपमेव, न भेदाभाव इति वाच्यम् । आत्मस्वरूपस्याप्यध्यस्तत्वेन मिथ्यात्वापातात् । न चाध्यस्तमपि देहादिस्वरूपमेव मिथ्या, नात्मस्वरूपमिति वाच्यम् । इतरेतराध्यासे वैचित्र्यकल्पनस्यायुक्तत्वात् । देहात्मनोः पारमार्थिकभेदाभावे तत एव तदुभयस्वरूपैक्यापत्तेश्च । इदमुपलक्षणम् । देहादेः पक्षतुल्यत्वेऽपि सन्दिग्धानैकान्त्यं दुर्वारमेव । अनुकूलतर्काभावे तस्यापि दोषत्वादित्यपि बोध्यम् ॥

Loading…