Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदे प्रथमानुमाननिराकरणम्

§104Mūla
ज्ञानत्वं चेदात्मत्वं तदा नैयायिकं प्रत्यसिद्धेः । ज्ञानाधारत्वमात्मत्वं चेत्तर्हि तवैवासिद्धेः । उपाधेर्बाधव्यभिचारोद्भावनद्वारा दूषणत्वपक्षे परमात्माननुसंहितदुःखाननुसन्धातृत्वमुपाधिश्च ॥
असिद्धेरिति ॥ नैयायिकेनात्मनो ज्ञानाधारत्वस्यैवोपगमात् पक्षदृष्टान्तयोः साधनस्य व्याप्तेश्चासिद्धेरित्यर्थः । यद्यपि वृत्तिज्ञाने व्यभिचारः सिद्धान्तेऽपि शक्यते वक्तुम् । तथापि नित्यज्ञानत्वस्य हेतुत्वे न तथेत्याशयः ॥ तवैवासिद्धेरिति ॥ आत्मनो ज्ञानमात्रत्वाङ्गीकारादिति भावः । न चाजडत्वमात्मत्वमिति वाच्यम् । जडत्वस्यानात्मत्वरूपतया परस्पराश्रयात् । न च पृथिव्यादिद्रव्यान्यत्वे सति गुणाद्यन्यत्वमात्मत्वमिति वाच्यम् । मां प्रति गुणाद्यन्यत्वासिद्धेः । तदनुक्तौ तार्किकमते गुणादौ व्यभिचारात् ॥ कथश्चित् हेतुनिर्वचनेऽप्यनुकूलतर्काभावादुपाध्यादिग्रस्तत्वं दुर्वारमित्याह– उपाधेरिति । अत्र परमात्माननुसंहितानुसन्धातृत्वमात्रं दुःखाननुसन्धातृत्वमात्रंवोपाधिः । प्रथमे दुःखेति स्वरूपकीर्तनम् । द्वितीये परमात्माननुसंहितेत्युपाधेः साध्यव्यापकत्वोपपादनमित्यवगन्तव्यम् । ननूपाधेर्बाधव्यभिचाराद्यनात्मकत्वाद्दूषणत्वमित्यत उक्तम् ॥ दूषणत्वपक्ष इति ॥ साक्षादनुमित्यविरोधित्वेन दूषणत्वायोगाद् बाधव्यभिचारोद्भावनद्वारेति ॥ परार्थप्रसङ्गादुद्भावनेत्युक्तम् । बाधोन्नयनद्वारा व्यभिचारोन्नयनद्वारा वेत्यर्थः । प्रकृते चोपाध्यभावेन पक्षे साध्याभावानुमानस्योपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानस्य च सम्भवादिति भावः ॥ यद्वा ननु पक्षे साध्यसन्देहेन विपक्षे च हेत्वभावेन कचिदुपाधेर्व्यभिचारोन्नायकत्वासम्भवात्कथं दूषणत्वमित्यत उक्तम् – बाधव्यभिचारोद्भावनद्वारेति ॥ बाधोन्नीतव्यभिचारोन्नयनद्वारेत्यर्थः । तथा चोपाधेः पक्षे साध्याभावनिश्चयसम्पादनद्वारा व्यभिचारोन्नायकत्वं सम्भवतीत्याशयः । अत्र च बाधोन्नायकत्वेनापि दूषणत्वं बोध्यम् ॥

Loading…