Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदे प्रथमानुमाननिराकरणम्

§104Mūla
विमता आत्मानः परमात्मनोऽपरमार्थतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्याभाससमानयोगक्षेमत्वं च । अनुकूलतर्काभावादप्रयोजकता च ।
विमता आत्मान इति ॥ यद्यप्यत्र व्यावहारिकभेदस्य परं प्रत्यसिद्ध्या साध्याप्रसिद्धिः । तथापि व्यवहारगोचरभेदशून्यत्वस्य साध्यत्वान्न दोषः । परमते पारमार्थिकस्यैव व्यवहारगोचरत्वात् ॥ यद्वा ब्रह्मज्ञानेतराबाध्यभेदशून्यत्वं साध्यम् । न च प्रत्यक्षविरुद्धत्वान्नैवमनुमानसम्भव इति वाच्यम् । परमार्थतो न भिद्यन्त इत्यस्य प्रमाणत्रयविरुद्धत्वात् । तच्च व्युत्पादितम् । अनुकूलतर्काभावादिति ॥ न चैक्ये लाघवमेवानुकूलतर्क इति वाच्यम् । लाघवस्य प्रमाणबाधितत्वात् । अन्यथा परमलाघवात् शून्यवादमेवाङ्गीकुर्याः । ब्रह्मातिरिक्तवियदाद्यशेषप्रामाणिकप्रपञ्चस्यात्यन्तानुपपन्नाविद्याकल्पितत्वकल्पन एव गौरवाच्च ॥

Loading…