Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदसाधकद्वितीयानुमाननिराकरणम्

§105Mūla
द्वितीये देवदत्तशब्देन देवदत्तशरीरावच्छिन्नचैतन्यविवक्षायां यज्ञदत्तादिशरीराणां देवदत्तशरीरावच्छिन्नचैतन्याधीनत्वासम्भवेन तद्भोगायतनत्वे साध्ये बाधः । अनवच्छिन्नचैतन्यविवक्षायां तस्याभोक्तृत्वेन बाधः ॥
तद्भोगायतनत्व इति ॥ देवदत्तशरीरावच्छिन्नचैतन्यभोगावच्छेदकत्वे साध्ये बाध इत्यर्थः । अन्यथा यज्ञदत्तशरीरसुखादौ देवदत्तस्य ममेदमित्याद्यनुसन्धानापत्तेरिति भावः । बाध इति ॥ साध्याप्रसिद्ध्या पक्षे साध्यसत्त्वानिर्वाह इत्यर्थः । अथ देवदत्तप्रतियोगिकपारमार्थिकभेदाभाववद्भोगानवच्छेदकत्वस्य साध्यघटकत्वान्नायं बाधः । यज्ञदत्तादेस्तादृशभेदाभाववत्त्वसम्भवात् । अथवा देवदत्तभिन्नभोगानवच्छेदकत्वे सति भोगावच्छेदकत्वमात्रं साध्यमस्तु । भोक्तुर्देवदत्तत्वमर्थात् सेत्स्यतीति चेत् - एवमपि देवदत्तयज्ञदत्तादीनां पारमार्थिकभेदग्राहकोक्तविधप्रत्यक्षादिप्रमाणबाधो दुर्वारः । न च तेषामप्रामाण्यम् । प्रामाण्ये बाधकाभावात् । बलवद्विरोधिप्रमाणानुपलम्भादिति । एवमत्र देवदत्तकर्मनिर्मितत्वमुपाधिरित्यादिकं च द्रष्टव्यम् ॥

Loading…