अभेदसाधकद्वितीयानुमाननिराकरणम्
§105Mūla
सुषुप्तमूर्च्छितादिशरीरे व्यभिचारः । तेषामपि पक्षत्वे बाधः । न च वाच्यं भोगायतनत्वात्यन्ताभावानधिकरणत्वं साध्यमिति । त्वया भोगायतनत्वस्य मिथ्यात्वाङ्गीकारेण तदधिकरणस्य शरीरस्य तदत्यन्ताभावाधिकरणत्वाङ्गीकारादिति ॥