Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदसामान्यमिथ्यात्वसाधकतृतीयानुमाननिरासः

§106Mūla
तृतीये साध्यानिरुक्तिः । न चाधिष्ठानयाथात्म्यज्ञाननिवर्त्यत्वं तत् । निवृत्तिशब्देन प्रध्वंसविवक्षायां मिथ्यात्वासम्भवात् । अत्यन्ताभावविवक्षायां च बाधः । त्वयाऽपि व्यवहारदशायां भेदाङ्गीकारे तदयोगात् ॥ पारमार्थिकत्वाकारेण तथात्वमिति चेन्न । अबाध्यत्वरूपस्य पारमार्थिकत्वस्य त्वयोच्यमानबाधज्ञानाधीनज्ञानत्वेनान्योन्याश्रयात् ॥
तृतीय इति ॥ भेदो मिथ्या भेदत्वात् चन्द्रभेदवत् इत्यनुमाने निर्दुष्टमिथ्यात्वनिर्वचनासम्भव इत्यर्थः । सम्भवन्निर्वचनस्य दुष्टत्वादिति भावः । तदेवाह - न चेति ॥ बाध्यत्वरूपं मिथ्यात्वमिति शेषः । मिथ्यात्वासम्भवादिति ॥ सत्यत्वप्रतिक्षेपासम्भवादित्यर्थः । प्रध्वंसप्रतियोगित्वस्य मन्मते सत्यत्वव्याप्यत्वादिति भावः । अत्र दृष्टान्ते साध्यवैकल्यमपि बोध्यम् ॥ न चाधिष्ठानयाथात्म्यज्ञानजन्यध्वंसप्रतियोगिज्ञानविषयत्वविवक्षणान्न दोष इति वाच्यम् । तद्धि भ्रमविषयत्वपर्यवसितम् । तथा च मया सतोऽपि भ्रमविषयत्वाङ्गीकारेणार्थान्तरतादवस्थ्यात् । तदयोगादिति ॥ अत्यन्ताभावप्रतियोगित्वासम्भवादित्यर्थः । अन्यथाऽत्यन्तासत्त्वापत्तिरिति भावः ॥ केचित्तु अधिष्ठानयाथात्म्यज्ञानजन्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्यङ्गीकारे जीवन्मुक्तिकालीनव्यवहारदशायां त्वया भेदानुवृत्त्यङ्गीकारेणासम्भवप्रसङ्गादिति व्याचक्षते ॥ व्यवहारसतोऽपि भेदस्य पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वोपगमान्न दोष इत्याशङ्कते - पारमार्थिकत्वेति ॥ तथात्वमत्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति शेषः ॥ अबाध्यत्वेति ॥ पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वरूपबाध्यत्वज्ञानस्य पारमार्थिकत्वज्ञानाधीनत्वात्तस्य चैतादृशबाध्यत्वाभावरूपस्य बाध्यत्वज्ञानाधीनत्वेनान्योन्याश्रयादित्यर्थः । उपलक्षणमेतत् । दृष्टान्ते साध्यवैकल्यं च । पारमार्थिकत्वेन चन्द्रभेदाभावाप्रसिद्धेः । असतः सद्रूपेण प्रतियोगित्वानुपगमात् । न चात्यन्ताभावप्रतियोगित्वमात्रं मिथ्यात्वम् । तच्च सद्रूपेण असद्रूपेण वा मतद्वयसिद्धमेवेति वाच्यम् । भेदस्य सत्त्वेऽप्यसत्त्वेनात्यन्ताभावप्रतियोगित्वसम्भवादर्थान्तरप्रसङ्गात् ॥

Loading…