Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तृतीयानुमाने हेतुनिरासः

§107Mūla
भेदत्वेन प्रतीयमानत्वादित्यत्र किमिदम्प्रतीयमानत्वम् ? प्रमात्वमप्रमात्वं वा ? किं वा प्रतीतित्वसामान्यम् ? नाद्यः । तवासिद्धेः ॥ न द्वितीयः । ममासिद्धेः ॥
परोक्तहेतुमपि दूषयति - भेदत्वेनेति ॥ इदम्प्रतीयमानत्वमित्येकपदम् । इदं वक्ष्यमाणविशेषसामान्याकारबोधौपयिकं प्रतीयमानत्वपदं यत्परं तत्प्रतीतिविशेषणं किमित्यर्थः । तेन न वक्ष्यमाणविकल्पानुपपत्त्यवकाशः ॥ तवासिद्धेरिति ॥ भेदमात्रस्य मिथ्यात्वेन तत्प्रतीतेः प्रमात्वायोगात् पक्षदृष्टान्तयोर्हेत्वसिद्धेरित्यर्थः ॥ ममासिद्धेरिति ॥ घटपटादिभेदास्यारोपितानारोपितचन्द्रभेदस्य च सत्यत्वादिति भावः । न च चन्द्रान्तरस्यारोपितत्वे गौरवम् । चन्द्रसमीपदेशे चन्द्रान्तरारोपं विना तत्प्रतीत्यनुपपत्तेः । मिथ्यैव चन्द्रान्तरं प्रत्यभादित्यनुस्मृतेश्च । एतेन दृष्टान्ते साध्यवैकल्यं च सूचितम् ॥

Loading…