Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

प्रामाणिकाप्रामाणिकानुगतधर्माङ्गीकारेऽपि दोषकथनम्

§108Mūla
न तृतीयः । चन्द्रभेदप्रत्यक्षप्रतीतेरपि मिथ्यात्वेनाप्रामाणिकत्वात् प्रामाणिकाप्रामाणिकयोरनुगतसामान्याभावेनासिद्धेः ॥ भेदाभेदभेदेऽनैकान्त्यं च । तस्यापि पक्षत्वे बाधः । भेदाभेदयोर्भेदस्यापारमार्थिकत्वे त्वनेनैवानुमानेनाभेदस्यापि मिथ्यात्वं स्यात् । व्यावहारिकभेदसद्भावेऽपि परमार्थतो ब्रह्माभिन्नस्य जीवस्य पारमार्थिकत्ववत्परमार्थतः पारमार्थिकाभेदाभिन्नो
--- टिप्पण्यः (footnotes): : १. '-प्रत्यक्ष-' इति पू.सं.पाठे कंसगतः । काशिकायां प्रत्यक्षपदघटितप्रतीकग्रहणम् । कुम्भारीयेऽपि तथा । : २. यद्यपि प्र.पाठे, पू.सं.पाठे च 'भेदाभेदयोर्भेदे' इत्येव लभ्यते । तथापि 'भेदाभेदयोर्यो भेदस्तत्रेत्यर्थः' इति व्याख्यानात्, अन्येषु व्याख्यानेषु 'भेदाभेदेति' इति प्रतीकग्रहणाच्च 'भेदाभेदभेद' इत्येव पाठः स्वीकृतः । : ३. 'व्यावहारिकभेदसद्भावेऽपरमार्थतो ब्रह्मणो भिन्नस्य' इति पू.सं.कंसगतः पाठः । स च हुलगिव्याख्याने स्वीकृतः । प्र.पाठः भगवन्तरायैः कुम्भारीये च स्वीकृतः ।

Loading…