Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

प्रामाणिकाप्रामाणिकानुगतधर्माङ्गीकारेऽपि दोषकथनम्

§108Mūla
भेदोऽपि पारमार्थिकः स्यादिति मिथ्यात्वसाधने बाधः । पारमार्थिकापारमार्थिकब्रह्मप्रपञ्चभेदे व्यभिचारश्च । तस्यापि पक्षत्वे बाधो वा ॥
चन्द्रभेदप्रत्यक्षप्रतीतेरिति ॥ तन्मते चन्द्रभेदप्रत्यक्षस्य भ्रमत्वेन प्रातिभासिकत्वात् व्यावहारिकप्रातिभासिकयोरनुगतसामान्याभावेन हेत्वसिद्धेरित्यर्थः । अन्यथा बाष्पारोपितधूमादिमति वह्न्याद्यभावानुमानोच्छेदप्रसङ्ग इति भावः ॥ अभ्युपेत्यापि दोषमाह - भेदाभेदेति ॥ भेदाभेदयोर्यो भेदस्तत्रेत्यर्थः ॥ तस्यापि पक्षत्व इति ॥ तत्साधारणविमतेः पक्षतावच्छेदकत्वात् पक्षे व्यभिचारस्य चादोषत्वादिति भावः । ननु भेदाभेदभेदस्यापि मिथ्यात्वाङ्गीकारात् न बाध इत्यत आह - भेदाभेदयोरिति ॥ मिथ्यात्वं स्यादिति ॥ अभेदस्यापि भेदत्वेन पक्षत्वात् हेतुमत्त्वाच्चेति भावः ॥ अत्रैव दोषान्तरमाह - व्यावहारिकेति ॥ पारमार्थिकः स्यादिति ॥ अभेदस्य पारमार्थिकत्वे तदभिन्नभेदस्य मिथ्यात्वायोगादिति भावः । भेदाभेदयोः व्यावहारिकभेदसत्त्वात् कथमभेद इत्यत उक्तम् - परमार्थतोऽभिन्न इति ॥ व्यावहारिकभेदश्च न पारमार्थिकाभेदविरोधीत्याशयः । अत्र दृष्टान्तो व्यावहारिकेत्यादिः । स्थलान्तरे व्यभिचारमाह - पारमार्थिकेति ॥ पारमार्थिकं ब्रह्म अपारमार्थिकश्च प्रपञ्च इत्यनयोर्भेदस्य पारमार्थिकत्वात् तत्रापि व्यभिचार इत्यर्थः ॥ तस्यापीति ॥ ब्रह्मप्रपञ्चभेदस्यापीत्यर्थः । तस्यापारमार्थिकत्वे च ब्रह्मवत् प्रपञ्चस्य पारमार्थिकत्वापत्त्या तदन्तर्गतभेदे पुनर्बाध एवेत्यर्थः ॥

Loading…