Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

प्रामाणिकाप्रामाणिकानुगतधर्माङ्गीकारेऽपि दोषकथनम्

§108Mūla
ब्रह्मणि धर्मिसमसत्ताकभेदो नास्तीति पारमार्थिकत्वं, घटादौ चास्तीत्यपारमार्थिकत्वमिति चेत् । तर्हि ब्रह्मणः प्रपञ्चात् धर्मिसत्तासमानसत्ताको भेदो नास्तीति तदपारमार्थिकत्वं प्रपञ्चवत् स्यात् ॥
स्यादेवं यदि ब्रह्मप्रतियोगिकपारमार्थिकभेदशून्यत्वं ब्रह्मधर्मापादकं स्यात् । न चैवम् । अपि तु ब्रह्मप्रतियोगिकधर्मिसत्तासमसत्ताकभेदशून्यत्वमेवातो नोक्तदोष इत्याशङ्कते - ब्रह्मणीति ॥ भेदो ब्रह्मभेदः ॥ प्रपञ्चवत् स्यादिति ॥ तुल्यन्यायेन प्रपञ्चप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदशून्यत्वस्य प्रपञ्चधर्मापादकत्वप्राप्तेरिति भावः ॥

Loading…