Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तृतीयानुमानस्योपाध्यादिदोषकथनम्

§109Mūla
चन्द्रभेदे प्रातिभासिकत्वमुपाधिश्च । न च तत् पक्षे साधयितुं शक्यम् । व्यावहारिकत्वाङ्गीकारविरोधात् । अभेदो मिथ्या अभेदत्वात् देहात्माभेदवदित्याद्याभाससमानयोगक्षेमत्वं च ।
--- टिप्पण्यः (footnotes): : ४. 'स च न पक्षे' इति पू.सं.पाठः । तत्र सः नाम उपाधिरित्यर्थः । प्र.पाठे 'तत्' नाम प्रातिभासिकत्वमित्यर्थः ।

Loading…