Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तृतीयानुमानस्योपाध्यादिदोषकथनम्

§109Mūla
न च दृष्टान्तस्य साध्यवैकल्यं शङ्क्यम् । तथात्वेऽन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य' इति भाष्यस्योन्मत्तप्रलापत्वप्रसङ्गात् । गौरोऽहं कृशोऽहमित्यादिज्ञानस्य तत्त्वावेदकत्वेन प्रामाण्यप्रसङ्गः (प्रामाण्यप्रसङ्गाच्च) ॥
चन्द्रभेद इति साध्यव्यापकत्वप्रदर्शनार्थम् । यद्यपि मिथ्यात्ववति घटादौ न प्रातिभासिकत्वम् । तथापि भेदत्वावच्छिन्नसाध्यव्यापकत्वादुपाधित्वमिति । नन्वस्य साधनव्यापकत्वात् नोपाधित्वम् । भेदत्वेन पक्षेऽप्युपाध्यनुमानादित्याशङ्कां वारयति - न चेति । तथा चापसिद्धान्त इति भावः । शङ्करभाष्यविरोधमेव विवृणोति - गौरोऽहमिति ॥ देहात्माभेदस्य मिथ्यात्वानङ्गीकारे तद्विषयस्य गौरोऽहमित्यादिज्ञानस्याबाधितविषयत्वेन प्रमात्वापत्त्या तद्भ्रमत्ववर्णनपरभाष्यविरोध इति भावः । प्रामाण्यप्रसङ्गाच्चेति पाठे तु दूषणान्तराभिधानमेतदिति ज्ञातव्यम् ॥ यत्तु जीवेशाभेदस्यापि मिथ्यात्वमिष्टमेवेति नोक्ताभाससाम्यापत्तिः । न चैवं भेदस्य सत्यत्वापत्तिः । श्रुत्या दृश्यत्वावच्छेदेनैव मिथ्यात्वावधारणादिति तत् तुच्छम् । भेदाभेदोभयमिथ्यात्वस्य व्याहतत्वेन श्रुत्यापि प्रतिपादयितुमशक्यत्वात् । उपपन्नस्यैव श्रुत्यर्थत्वात् । अन्यथाऽभिमान्याधिकरणविरोधादिति ॥

Loading…