तृतीयानुमानस्योपाध्यादिदोषकथनम्
§109Mūla
न च दृष्टान्तस्य साध्यवैकल्यं शङ्क्यम् । तथात्वेऽन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य' इति भाष्यस्योन्मत्तप्रलापत्वप्रसङ्गात् । गौरोऽहं कृशोऽहमित्यादिज्ञानस्य तत्त्वावेदकत्वेन प्रामाण्यप्रसङ्गः (प्रामाण्यप्रसङ्गाच्च) ॥