Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तात्त्विकस्वान्तर्भेदहीनत्वसाधकचतुर्थानुमाननिराकरणम्

§110Mūla
चतुर्थे तु नानापदार्थानामेव सेनावनादिवदुपाधिभेदेन जगच्छब्दवाच्यतया पदार्थान्तराभावेन घटादीनां तदभेदसाधने बाधः ॥
चतुर्थानुमाने विमतं जगत् तत्त्वतः स्वान्तर्भेदहीनं मेयत्वात् गगनवत् इत्यत्र गगनादिवत् जगतः स्वतन्त्रपदार्थत्वे तदवयवरूपतदेकदेशप्रसिद्ध्या तदभेदरूपसाध्यसिद्धिः स्यात् । न चैवम् । नानावस्तूनामेव सेनावनादिपदार्थवत् समूहत्वविशेषोपाधिना जगत्पदार्थत्वात् । तदवच्छिन्ने च साध्यस्य विशेषणाप्रसिद्ध्या बाध इत्याह - चतुर्थे त्विति ॥

Loading…