तात्त्विकस्वान्तर्भेदहीनत्वसाधकचतुर्थानुमाननिराकरणम्
§110Mūla
पृथिव्यादीनां जगदाख्यपदार्थान्तरारम्भकत्वे तु तदारब्धे जगति पृथिवीत्वादिजातिसाङ्कर्यप्रसङ्गः । गुणादीनां च जगदन्तर्भूतानां तदारम्भकत्वे तेषां द्रव्यत्वापत्तिश्च । निरवयवानां गगनादीनां द्रव्यारम्भकत्वप्रसङ्गश्च । घटादीनामन्त्यावयवित्वहानिश्च स्यात् ।