Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तात्त्विकस्वान्तर्भेदहीनत्वसाधकचतुर्थानुमाननिराकरणम्

§110Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
ननु विशिष्य घटादिः स्वान्तर्भेदहीन इति साधनान्नोक्तदोष इत्याशङ्क्य साध्यविकल्पेन दूषयति – घटादिपदार्थानामिति ॥ साध्यविकल इति ॥ मया गगने घटादिप्रतियोगिकपारमार्थिकभेदाभ्युपगमादिति भावः । स्वैकदेशभेदाभावसाधनेऽप्याह – आकाशेति ॥ आकाशैकदेशानामाकाशेन मिथश्च तात्त्विकभेदसाधनमन्यत्र न्यायामृतादौ कृतमतो दृष्टान्ते साध्यवैकल्यमिति भावः ॥ एवं विमतौ परमार्थतः परस्पराभिन्नौ प्रमेयत्वात् परस्परवत् इत्याद्यशेषाभिलषिताभेदसाधकानुमानेषु प्रत्यक्षादिप्रमाणबाधः । सर्वत्र साक्षिणः, पारमेश्वरस्य च भेदप्रत्यक्षस्य प्रमाणसिद्धत्वात् ॥

Loading…