Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अशेषाभिलषिताभेदसाधकानुमाननिरासः

§111Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
विमतौ न परमार्थतः परस्पराभिन्नौ परस्परविरुद्धधर्मवत्त्वात् व्यतिरेकेण परस्परवत् इत्यनुमानात्, द्वा सुपर्णेत्याद्यागमाच्च । परस्परविरुद्धधर्मानधिकरणत्वमन्ततः पक्षेतरत्वमप्युपाधिः । विमतौ व्यवहारतो परस्पराभिन्नौ मेयत्वात् परस्परवत् इत्याभाससाम्यम् । अनुकूलतर्काभावादेवाप्रयोजकत्वं चेत्येवमाद्यनन्तदोषदुष्टत्वात् नाद्वैतमुपादेयम् ॥

Loading…