Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जडभेदे प्रत्यक्षसमर्थनम्

§82Mūla
घटपटादिभेदे तु प्रत्यक्षं सुलभमेव ॥
एवमात्मभेदं प्रसाध्यानात्मभेदमपि व्यवस्थापयति - घटपटादीतिसुलभमेवेति ॥ धर्मिप्रतियोगिनोः प्रत्यक्षत्वेनोक्तशङ्कानवकाशादिति भावः । अतीन्द्रियभेदे तु पूर्ववदीश्वरप्रत्यक्षमुदाहर्तव्यम् । न च प्रत्यक्षस्य व्यावहारिकविषयकत्वम् । मानाभावात् । अस्यैवार्थस्य व्यावहारिकत्वाव्यावहारिकत्वयोर्व्याघाताच्च । न च भेदस्य प्रत्यक्षत्वेऽपि तस्य परमार्थसत्त्वे किं मानमिति वाच्यम् । सत्त्वेनैव भेदस्य प्रतीयमानत्वात् । तस्य च बाधाभावेन परमार्थत्वादित्यन्यत्र विस्तरः ॥

Loading…