Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जडभेदसाधकघटपक्षकानुमानविवरणम्

§83Mūla
अनुमानं च घटः पटप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति । प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिष्ठत्यन्ताभावप्रतियोगिधर्माधिकरणत्वात् व्यतिरेकेण पटवत् ॥
अत्रैवानुमानान्याह – अनुमानं चेति ॥ पटेत्यादेः पटप्रतियोगिकतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदवानित्यर्थः । तात्त्विकतादात्म्येति पाठे पटत्वविशिष्टतादात्म्यावच्छिन्नभेदमादाय सिद्धसाधनवारणाय तात्त्विकपदं तदुपलक्षिततादात्म्यनिवेशलाभार्थम् । तदवच्छिन्नव्यावहारिकभेदसिद्ध्याऽर्थान्तरत्वं त्वात्मभेदसाधकानुमानरीत्या परिहरणीयम् ॥

Loading…