Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकानुमाने हेतुपरिष्कारः

§84Mūla
अनुमानं च घटः पटप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति । प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिष्ठत्यन्ताभावप्रतियोगिधर्माधिकरणत्वात् व्यतिरेकेण पटवत् ॥
प्रतियोगीति ॥ अव्याप्यवृत्तिसंयोगादिकं व्याप्यवृत्तिपटत्वादिकं चादाय पटे व्यभिचारवारणायानवच्छिन्नान्तनिष्टान्तयोरभावविशेषणत्वेन निवेशः । न च प्रतियोग्यसमानाधिकरणत्वविशेषणेनैव संयोगाभावादिव्यावृत्तेरनवच्छिन्नान्तव्यावृत्त्यभाव इति वाच्यम् । गुणादौ प्रतियोग्यसमानाधिकरणस्यैव संयोगाभावस्य पटनिष्ठत्वेन तद्व्यावृत्तेः । अनवच्छिन्नान्तनिवेशे च प्रतियोगिसामानाधिकरण्यावच्छेदकं यत्संयोगाभावत्वं तदनवच्छिन्नत्वाभावेन तद्व्यावृत्तेः ।

Loading…