Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकानुमानेऽसिद्धिशङ्कापरिहारौ

§85Mūla
अनुमानं च घटः पटप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति । प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिष्ठत्यन्ताभावप्रतियोगिधर्माधिकरणत्वात् व्यतिरेकेण पटवत् ॥
न चैवं घटत्वाभावादेरपि घटत्वादिरूपप्रतियोगिसामानाधिकरण्यावच्छेदकप्रमेयत्वाद्यवच्छिन्नत्वादसिद्धिरिति वाच्यम् । स्वनिरूपकप्रतियोगिसामानाधिकरण्यावच्छेदकं यद्यत्तदनवच्छिन्नत्वस्य विवक्षितत्वात्, प्रमेयत्वादिनिरूपकप्रतियोग्यप्रसिद्ध्या स्वपदेन तदुपादानायोगात् । संयोगभावत्वादेरेव च तथात्वात् ॥

Loading…