Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकानुमाने साध्याप्रसिद्धिशङ्कापरिहारौ

§86Mūla
अप्रसिद्धविशेषणत्वं चात्मभेदसाधकानुमान इव परिहर्तव्यम् । व्यावहारिकभेदमात्रेण पक्षदृष्टान्तभावश्च घटपटयोरुपपादनीयः । नन्वथापि घटपटयोरपारमार्थिकभेदं वदता मया घटत्वादेरपि पटनिष्ठत्वाङ्गीकारेण पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वं घटस्य नास्तीत्यसिद्धिरिति चेत् । किं पटे घटत्वं तथ्यमतथ्यं वा । नाद्यः । अपसिद्धान्तात् । द्वितीये तु कथं पटे घटत्वात्यन्ताभावानङ्गीकरणम् । 'सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते । प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता' इति वदता त्वया स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्यङ्गीकारात् ॥
--- टिप्पण्यः (footnotes): : 'उदाहरणीयः' इति पू.सं.पाठः । : 'ननु तथापि' इति पू.सं.पाठः । व्याख्यानेषु 'नन्विति' इति प्रतीकग्रहणेन अयं पाठः स्वीकृतः । कुम्भारीये 'नन्वथापीति' इति गृहीतम् । प्र.पाठः तथैव । : 'चेन्न' इति पू.सं.पाठः । : 'किम्' इति कंसेऽस्ति पू.सं.पाठे । : 'मिथ्या' इति पू.सं.पाठे कंसगतः । : 'मृषा मता' इति प्रतीकं गृहीत्वा मृषात्वं मतमित्यर्थः इति व्याख्यया 'मृषात्मता' अति पाठस्य साधुत्वमुक्तं हुलगीव्याख्याने । : 'वचनात्' इत्येव सर्वत्र पाठः । परन्तु काशिकायां 'वदता त्वया इति सम्बन्धः' इति व्याख्यानात् 'वदता' इति पाठः स्वीकृतः ।

Loading…