Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकानुमाने साध्याप्रसिद्धिशङ्कापरिहारौ

§86Mūla
पटस्य घटत्वं प्रत्याश्रयत्वमेव नास्तीति तत्र तदत्यन्ताभावाभावेऽपि तत्र तस्य मिथ्यात्वं न विरुद्धम् इति चेत्, तर्हि पटस्य घटत्वं प्रत्यनाश्रयत्वे घटत्वात्यन्ताभावाधिकरणत्वं सुप्रसिद्धमिति कथमसिद्धिः ॥
ननु सर्वस्यैव पटतादात्म्याधिकरणत्वात् तदवच्छिन्नभेदरूपसाध्याप्रसिद्धिरत आह – अप्रसिद्धेतिपरिहर्तव्यमिति ॥ प्रकृतानुमित्यविरोधित्वेन ज्ञेयमित्यर्थः । अभावसाध्यकव्यतिरेक्यनुमाने तददोषत्वस्योपपादितत्वादिति भावः ।

Loading…