घटपक्षकानुमाने पुनरसिद्धिशङ्कापरिहारौ
§87Mūla
ननु तर्हि घटेऽपि घटत्वस्य मिथ्यात्वेन घटस्यापि घटत्वाश्रयत्वं नास्तीत्यसिद्धिरिति चेन्न । घटत्वात्यन्ताभावं प्रत्याश्रयस्य घटस्य घटत्वं प्रत्याश्रयत्वस्याप्यङ्गीकार्यत्वात् । अन्यथा घटत्वादेः निरधिकरणत्वेन स्वात्यन्ताभावसमानाधिकरणत्वरूपमिथ्यात्वं घटत्वादेर्न स्यात् ॥