Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदस्य घटादिधर्मत्वे दोषोक्तिः

§113Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
द्वितीये भावोऽभावो वा ? नाद्यः । जात्यादिरूपत्वे सप्रतियोगिकत्वाद्यनुपपत्तेः । पृथक्त्वादिरूपत्वे च गुणादौ भेदप्रत्ययानुपपत्तेः । अन्योन्याभावेनैवोपपत्तौ पृथक्त्वरूपगुणान्तरानङ्गीकाराच्च । नान्त्यः । भेदस्यान्योन्याभावरूपत्वे कपिसंयोगवति वृक्षे तद्भेदसत्त्वप्रसङ्गात् । मूले वृक्षो न कपिसंयोगीति प्रतीतेः । अत्यन्ताभावरूपत्वे च नास्ति न भवतीति प्रतीत्योरविशेषप्रसङ्गात् । स्वस्मिन्नपि स्वात्यन्ताभावसत्त्वेन स्वभेदबुद्ध्यापत्तेश्च । तद्भेदस्य तद्धर्मात्यन्ताभावरूपत्वे च प्रथमदोषानिस्तारात् ॥

Loading…