Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

प्रतियोग्यभावाद्भेदासिद्धिसमर्थनम्

§114Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
किञ्च प्रतियोगिप्रमाणयोरभावान्न भेदसिद्धिः । तथाहि । न तावत् घटभेदस्य घटः प्रतियोगी । घटवति घटभेदानुपपत्तेः । लाघवादभावत्वावच्छेदेनैव प्रतियोगिविरोधावधारणात् । किञ्च भेदस्याभेदाभावत्वेनाभेदस्यैव तत्प्रतियोगित्वं स्यात् । न चाभेदो घटादिस्वरूप एवेति वक्तुं शक्यम् । घटवति घटभेदानुपपत्तेः । न चाभेदस्यापि भेदप्रतियोगित्वं सम्भवति । तज्ज्ञानस्य भेदज्ञानाधीनत्वात् भेदज्ञानस्य च प्रतियोगिज्ञानाधीनत्वेनान्योन्याश्रयात् ॥ अत एव न तत्र प्रत्यक्षं प्रमाणम् । अन्योन्याश्रयात् । एवं घटे पटभेदाभेदयोः संशयनिश्चयदशायां पटे घटभेदनिश्चयादर्शनात् घटभेदनिश्चये पटभेदनिश्चयस्य हेतुत्वं वाच्यम् । 'यत्संशयव्यतिरेकनिश्चयौ यत्र प्रतिबन्धकौ तन्निश्चयस्तद्धेतुः' इति नियमात् । एवं पटभेदनिश्चये घटभेदनिश्चयस्य हेतुत्वमित्यन्योन्याश्रयः ॥ किञ्च प्रतियोगित्वग्राहकसन्निकर्षाभावान्न प्रतियोगित्वविशेषितभेदप्रत्यक्षसम्भवः । ज्ञानमेव सन्निकर्ष इति चेत् हन्त तर्हि तज्ज्ञानं प्रतियोगित्वविषयं भेदज्ञानापेक्षमित्यन्योन्याश्रयः ॥ नाप्यनुमानम् । देवदत्तो यज्ञदत्तभेदवान् तद्दुःखाननुसन्धातृत्वादित्यादेरौपाधिकभेदेनाप्युपपत्तेः । अत एव नागमः । पारमार्थिकभेदासाधकत्वात् । तस्मात् सर्वाऽपि भेदप्रतीतिरनिर्वचनीयाविद्याविलास एवेति युक्तम् । तदुक्तम् 'असम्भावनीयावभासचतुरा हि सा' इति ॥

Loading…