Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सुखसुखत्वपक्षकानुमानयोर्व्यभिचारपरिहारः

§10Mūla
न च शब्दे शब्दत्वे वा व्यभिचारः । तस्य द्रव्यत्वात् । अद्रव्यत्वपक्षे तदन्यत्वेन हेतुविशेषणादिति चेन्न । सुखदुःखादीनामन्तःकरणाश्रितत्वादन्तःकरणानां च नानात्वेन सिद्धसाधनत्वात् । स्वरूपसुखविवक्षायां तस्य अगुणत्वेनासिद्धेः ॥
व्यभिचार इति ॥ शब्दाश्रयीभूतगगनस्यैकत्वेन शब्दे प्रथमसाध्यस्य, शब्दत्वे च द्वितीयसाध्यस्याभावादिति भावः । मीमांसकमतेनाह– तस्येति । शब्दस्येत्यर्थः । तथाच शब्दे शब्दत्वे वा हेत्वभावादेव न व्यभिचार इति भावः । नैयायिकनयेऽप्याह– अद्रव्यत्वपक्ष इतितदन्यत्वेनेति । प्रथमे शब्दान्यत्वेन द्वितीये शब्दत्वान्यत्वेन चेत्यर्थः । न च द्वितीये कत्वादिजातौ व्यभिचारः । तत्कल्पे तदन्यत्वपदेन तद्वदवृत्तित्वस्य विवक्षितत्वात् । कत्वाद्यन्यत्वेनापि हेतुर्विशेषणीय इत्याहुः । वस्तुतः कल्पद्वयेऽपि तदन्यत्वेनेत्यस्य शब्दान्यत्वेनेत्येवार्थः । हेतुविशेषणादित्यस्य हेतुघटकगुणविशेषणत्वादित्यर्थकतया शब्दमात्रवृत्तिशब्दत्वादेः शब्दान्यगुणवृत्तित्वाभावान्नोक्तदोष इति भावः ॥

Loading…