Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सुखत्वपक्षकानुमानविवरणम्

§9Mūla
अथ सुखं नानाव्यक्त्याश्रितं गुणत्वात् रूपवत् । सुखत्वं वा नानाव्यक्त्याश्रिताश्रितं गुणनिष्ठजातित्वाद्रूपत्ववदिति ॥
एतत्पक्षे साध्यगौरवादाह– सुखत्वं वेतिनानेत्यादेः स्वाश्रयाश्रयनिष्ठभेदप्रतियोगितावच्छेदकवृत्तीत्यर्थः । तेन नानाव्यक्त्याश्रितं यत्संयोगादिकं तदाश्रितत्वस्य रूपत्वादावभावेऽपि न पूर्ववद्दोषः । जातित्वमात्रस्य मनस्त्वादौ व्यभिचारित्वाद्गुणनिष्ठेति । तावन्मात्रस्य तत्तद्रूपत्वादौ व्यभिचारित्वाज्जातीति । गुणसमवेतत्वोक्तौ तु तल्लाभायैव जातिपदमित्यवधेयम् ॥

Loading…