Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सुखपक्षकानुमानविवरणम्

§8Mūla
अथ सुखं नानाव्यक्त्याश्रितं गुणत्वात् रूपवत् । सुखत्वं वा नानाव्यक्त्याश्रिताश्रितं गुणनिष्ठजातित्वाद्रूपत्ववदिति ॥
सुखं नानाव्यक्त्याश्रितमिति ॥ यद्यपि रूपादेः प्रत्येकं नानाव्यक्त्याश्रितत्वाभावात् दृष्टान्ते साध्यवैकल्यम् । संयोगादेर्दृष्टान्तत्वसम्भवेऽपि रूपादावनैकान्त्यम् । तथापि जात्या नानाव्यक्त्याश्रितत्वस्य स्वाश्रयाश्रयनिष्ठभेदप्रतियोगितावच्छेदकवृत्तिगुणत्वव्याप्यजातिमत्त्वरूपस्य साध्यत्वान्न दोषः । रूपत्वादेः स्वाश्रयनीलघटादिनिष्ठभेदप्रतियोगितावच्छेदकपीतरूपवृत्तेर्दृष्टान्ते सत्त्वात् । पक्षे च सुखत्वमादाय साध्यपर्यवसाने तदाश्रयाश्रयाणामात्मनां भेदसिद्धिः ॥ गुणत्वादिजातिमादायार्थान्तरवारणाय गुणत्वव्याप्येति । न च गुणत्वस्यापि गुणत्वाभाववद्वृत्तितया गुणत्वव्याप्यत्वादर्थान्तरतादवस्थ्यमिति वाच्यम् । गुणत्वव्याप्येत्यनेन गुणत्वन्यूनवृत्तित्वस्य गुणनिष्ठभेदप्रतियोगितावच्छेदकत्वपर्यवसितस्य विवक्षितत्वात् । सुखत्वादेर्गन्धादिगुणनिष्ठभेदप्रतियोगितावच्छेदकत्वेन गुणत्वव्याप्यत्वादिति न कश्चिद्दोषः ॥

Loading…