Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मपक्षकानुमानविवरणम्

§7Mūla
आत्मा आत्मप्रतियोगिकभेदाधिकरणं द्रव्यत्वात् । घटवदित्यस्याप्यसिद्धेः । आत्मनो निर्गुणस्यास्माभिर्गुणाश्रयत्वलक्षणद्रव्यत्वानङ्गीकारात् ॥
आत्मेति ॥ अत्र घटादिभेदसिद्ध्याऽर्थान्तरवारणाय आत्मप्रतियोगिकेति । आत्मत्वव्याप्यरूपावच्छिन्नप्रतियोगिताकेत्यर्थः । तेनात्मघटोभयभेदमादाय नार्थान्तरम् । आत्मप्रतियोगिकप्रतियोग्यवृत्तिभेदः साध्य इत्यप्याहुः ॥ यद्यप्यत्र मेयत्वादेरपि हेतुत्वं सम्भवति । तथापि तद्धेतुकानुमानस्य द्रव्याद्रव्यसाधारणबहुतरभूयोदर्शनाधीनतया न सुकरत्वमित्याशयेन द्रव्यत्वस्यैव हेतुत्वमनुसृतम् ॥ द्रव्यत्वस्य जातित्वे विवादात् गुणाश्रयत्वलक्षणेत्युक्तम् । गुणाश्रयत्वस्याश्रयत्वापेक्षया गुरुतया हेतुत्वानङ्गीकारे तु आश्रयतया गुणस्यैव हेतुत्वं बोध्यम् । गुणाश्रयत्वं लक्षणमभिज्ञकं यस्येत्यर्थाद्द्रव्यत्वजातेरेव हेतुत्वमित्यपि वदन्ति । अनङ्गीकारादिति । यद्यपि स्वभावतो निर्गुणस्याप्यारोपितगुणाश्रयत्वान्नासिद्धिः । आरोपितधूमवत्त्वस्यैवाग्निसाधकत्वाभ्युपगमात् । तथापि सिद्धसाधनतावारणाय पारमार्थिकभेदस्यैव साध्यतायामारोपितगुणाश्रयत्वस्याप्रयोजकतया तदपि पारमार्थिकमेव वाच्यमित्यसिद्धिरिति भावः ॥

Loading…