Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वपक्षकानुमाने हेतुनिरासः

§6Mūla
नाप्यनुमानम् । आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वात् । पृथिवीत्ववत् । इत्यस्यासिद्धेः । आत्मैक्यवादिनां व्यक्तिभेदस्य बाधितत्वेन आत्मत्वस्य जातित्वानङ्गीकारात् ॥
इत्यस्यासिद्धेरिति ॥ इतिन्यायप्रतिपाद्यहेतोः असिद्धेरित्यर्थः । व्यक्तिभेदस्य स्वाभाविकात्मभेदस्य । गगनत्वादेर्जातित्ववारणाय स्वाभाविकव्यक्तिभेदस्य जातित्वनियामकत्वादिति भावः । इदमुपलक्षणम् । साध्यशरीरे पारमार्थिकत्वविशेषितभेदनिवेशे साध्यप्रसिद्धिः । तदविशेषितभेदनिवेशे चापारमार्थिकभेदमादाय सिद्धसाधनम् इत्यपि बोध्यम् ॥

Loading…