Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

स्वरूपतोऽनवच्छेदकत्वपरिष्कारः

§5Mūla
नाप्यनुमानम् । आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वात् । पृथिवीत्ववत् । इत्यस्यासिद्धेः । आत्मैक्यवादिनां व्यक्तिभेदस्य बाधितत्वेन आत्मत्वस्य जातित्वानङ्गीकारात् ॥
वस्तुतो निरुक्तभेदवद्वृत्तित्वं तादृशभेदवद्वृत्तिभेदप्रतियोगितायां स्वरूपतोऽनवच्छेदकत्वम् । आत्मत्वस्य च प्रतिव्यक्तिभिन्नत्वेऽप्ययमात्मा नात्मेत्यादिप्रतीत्यभावेन स्वरूपतस्तत्तदात्मवृत्तिभेदप्रतियोगितानवच्छेदकत्वान्न दोषः । स्वरूपत इति विशेषणात्तत्तद्व्यक्तित्वेनात्मत्वस्य आत्मान्तरवृत्तिभेदप्रतियोगितावच्छेदकत्वेऽपि न क्षतिः । एवमग्रेऽप्यूह्यम् । हेतूकृतं जातित्वं च न नित्यानेकसमवेतत्वम् । नित्यत्ववैयर्थ्यात् । साध्याविशिष्टत्वाच्च । किं त्वखण्डोपाधिर्जातिपदवाच्यत्वं वेति ध्येयम् ।

Loading…