Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वपक्षकानुमानविवरणम्

§4Mūla
नाप्यनुमानम् । आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वात् । पृथिवीत्ववत् । इत्यस्यासिद्धेः । आत्मैक्यवादिनां व्यक्तिभेदस्य बाधितत्वेन आत्मत्वस्य जातित्वानङ्गीकारात् ॥
यद्यप्याद्यपद्योक्तमीश्वरधर्मिकविश्वप्रतियोगिकभेदसाधकानुमानमेवादौ प्रतिक्षेप्यम् । तथापि सामान्यतश्चेतनभेदसाधकानुमानस्याभासत्वे विशेषतस्तत्साधकस्य सुतराम् आभासत्ववमित्येतत्सूचनाय सामान्यतश्चेतनभेदसाधकानुमानानि तावद्दूषयति – आत्मत्वमिति ॥ आत्मपदप्रवृत्तिनिमित्तमित्यर्थः । तेनात्मत्वस्य जातिरूपस्य पक्षत्वे पक्षाप्रसिद्धिः । तद्व्यक्तित्वरूपस्य तथात्वे च बाध इति शङ्कानवकाशः । नानाव्यक्तिनिष्ठमिति ॥ अनेकसमवेतमित्यर्थः । स्वाश्रयप्रतियोगिकभेदवद्वृत्तीति यावत् । न चैवमात्मत्वस्य आत्मघटोभयसमवेतत्वसिद्ध्या अर्थान्तरमिति वाच्यम् । आत्मत्वे घटादिसमवेतत्वस्य बाधितत्वेनासिद्धेः । सिद्धौ वा आत्मत्वाश्रयनानात्वसिद्ध्योद्देश्यसिद्धेः । एतच्च तार्किकरीत्या । सिद्धान्ते जातेरननुगतत्वादिति ध्येयम् ॥

Loading…