Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
जीवेश्वरभेदसाधकब्रह्मपक्षकानुमानविवरणम्
§37Mūla
ब्रह्म वा जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं जीवानुसंहितदुःखाननुसन्धातृत्वात् व्यतिरेकेण जीववत् ॥
ब्रह्म वेति ॥ अत्र जीवत्वावच्छिन्नप्रतियोगिताकभेदः साध्यः । तेन जीवप्रतियोगिकभेदस्य जीवसाधारणेऽपि न व्यतिरेकाप्रसिद्धिः । तत्तज्जीवप्रतियोगिकभेद एव साध्य इत्याप्याहुः । अत्रापि हेतौ दुःखपदं स्वरूपकीर्तनमेव । न चैवं जीवानुसंहितदुःखाभावानुसन्धातृत्वस्य ब्रह्मण्यपि सत्त्वादसिद्धिरिति वाच्यम् । दुःखध्वंसप्रागभावयोरेव जीवानुसंहितत्वात् । ईश्वरस्य च दुःखात्यन्ताभावानुसन्धातृत्वेन दोषाभावात् ॥
एवं चाननुसन्धातृत्वमात्रस्य ब्रह्मण्यभावादसिद्धिरतो जीवानुसंहितेति सार्थकम् । न च व्यभिचारावारकत्वात्तद्वैयर्थ्यमिति शङ्क्यम् । व्यभिचारवद् असिद्धेरप्यनुमितिविरोधित्वाविशेषेण 'विमतं कर्त्रजन्यं शरीराजन्यत्वात्' इत्यादौ शरीरादिविशेषणवदसिद्धिवारकत्वेऽप्यवैयर्थ्यस्य शास्त्रे समर्थितत्वात् । अखण्डाभावसम्पादकत्वेनावैयर्थ्यं चोभयत्र तुल्यम् ॥
केचित्तु दुःखानुसन्धातृत्वतदभावयोरेवात्र हेतुत्वम् । दुःखे ब्रह्माननुसंहितत्वाद्यभिधानं तु व्यतिरेकदृष्टान्ते हेत्वभावसत्त्वप्रदर्शनपरमित्याहुः । तच्चिन्त्यम् । तत्प्रदर्शनस्य दुःखादीनामित्यग्रिमग्रन्थेनैव लाभेन ब्रह्माननुसंहितत्वाद्यभिधानवैयर्थ्यस्य दुर्वारत्वात् ॥
यद्यपि द्वितीयानुमाने घटादेरन्वयदृष्टान्तत्वं सम्भवत्येव । तथापि अन्वयदाढर्यायैव व्यतिरेकेण जीववदित्युक्तम् । यद्यपि च प्रथमे ब्रह्मानुसंहितसार्वज्ञ्याद्यननुसन्धातृत्वस्य, द्वितीये जीवानुसंहितसार्वज्ञ्याद्यनुसन्धातृत्वस्य च हेतुत्वं सम्भवति, तथापि परमते शुद्धस्यानुसन्धातृत्वाभावादसिद्धिः स्यादतो न तदनुसरणम् । न चैवं प्रथमे ब्रह्मानुसंहिताप्रसिद्ध्या परस्य हेत्वप्रसिद्धिरिति वाच्यम् । ब्रह्माननुसंहितेत्यनेन ब्रह्मनिष्ठाभावप्रतियोग्यनुसन्धानविषयत्वस्य विवक्षितत्वेन दोषाभावात् ॥