Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवेश्वरभेदसाधकजीवपक्षकानुमानविवरणम्

§36Mūla
अनुमानानि च । जीवो ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं ब्रह्माननुसंहितदुःखानुसन्धातृत्वात् व्यतिरेकेण ब्रह्मवत् ॥
अनुमानानि चेति ॥ भेद इत्यादिः । उच्यन्त इति शेषः । यद्यपि पूर्वपक्षक्रमेण सामान्यत एवात्मनानात्वसाधकानुमानमादौ वक्तव्यम् । तथापि प्रधानसिद्धौ सुतरां गुणसिद्धिरिति भावेनाह – जीव इति ॥ अत्र दुःखेति स्वरूपकीर्तनम् । न तु हेतुघटकम् । एवं च नित्यसुखाद्यनुसन्धातरि ब्रह्मणि व्यभिचारवारणाय ब्रह्माननुसंहितेति सार्थकम् ॥ न च ब्रह्मणः सर्वज्ञत्वेन ब्रह्माननुसंहिताप्रसिद्धिः । स्वीयत्वेन अनुभवस्यैवानुसन्धानत्वात् । स्वीयत्वं च स्वनैच्याद्यापादकत्वम् । न तु स्वधर्मत्वम् । अतो नान्तःकरणवृत्तिदुःखासङ्ग्रहः । एतल्लाभार्थं च दुःखपदमिति ध्येयम् ॥ यद्यपि अर्जुनाननुसंहितकिञ्चित्सुखाद्यनुसन्धातुरिन्द्रस्य तद्भेदवदत्रापि अभेदोपपत्तेरप्रयोजकत्वम् । तथापि भेदतत्प्रतिनिधिविशेषोभयसाधारणभेदव्यवहारविषयमात्रस्य साध्यत्वान्न दोषः । जीवब्रह्मणोर्बाधकाभावेन भेदस्यैव सिद्धेः । स्वाभाविकविशेषसिद्ध्याऽपि परनिवृत्तेश्च ॥ अत्रान्वयव्याप्तौ दृष्टान्ताभावादाह – व्यतिरेकेणेति ॥ यद्यपि प्रथममीश्वरधर्मिकभेद एव प्रत्यक्षस्योक्तत्वादनुमानमपि तत्रैवादौ वक्तुमुचितम् । तथापि जीवधर्मिकभेदस्य जीवप्रत्यक्षसिद्धत्वेन तत्रानुमानव्युत्पादनसौकर्यात् तदेवादावुक्तम् । पूर्वपक्षक्रमेण चपूर्वमीश्वरधर्मिकभेदे प्रत्यक्षं प्रदर्शितम् । पूर्वपक्षिणा च प्राधान्यात्तदेवादौ प्रतिक्षिप्तमिति नासङ्गतिः ॥

Loading…