Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
नाहं निर्दुःख इत्यादिप्रत्यक्षविषयविमर्शः
§35Mūla
ननु 'नाहं निर्दुःखो न सर्वज्ञ' इति निर्दुःखत्वादिसंसर्गाभाव एवात्मन्यनुभूयते नेश्वरप्रतियोगिकान्योन्याभाव इति चेन्न । मयि निर्दुःखत्वं सर्वज्ञत्वं वा नास्तीत्यनुभव एव तत्संसर्गाभावविषयकः । निर्दुःखत्वस्यैव प्रतियोगितयोपादानात् । न चास्य निर्दुःखत्वात्यन्ताभावो विषयः । धर्मिप्रतियोगिनोस्तादात्म्यं सामानाधिकरण्येन प्रसज्य तस्यैव निषेधात् । प्रत्यक्षप्रामाण्यं तु सुदृढमन्यत्रोपपादितमस्माभिः ॥
स्यादेवमुक्तभेदस्य प्रत्यक्षत्वं, यदि नाहं निर्दुःख इत्यादिप्रत्यक्षं भेदविषयं स्यात्, न त्वेवमित्याशङ्कते – नन्विति ॥ प्रतियोगितयोपादानादिति ॥ अभावांशे प्रतियोगितासंसर्गेण विशेषणत्वादित्यर्थः । अस्य नाहं निर्दुःख इत्यादिप्रत्यक्षस्य ॥ धर्मिप्रतियोगिनोरिति ॥ 'नाहं निर्दुःख' इति वाक्येनेत्यादिः । धर्मिणि जीवे प्रतियोगिन ईश्वरस्य तादात्म्यं धर्मिप्रतियोगिपदयोः समानविभक्तिकत्वेनारोप्य । तादृशतादात्म्यारोपजनकसमानविभक्तिकधर्मिप्रतियोगिपदे समुल्लिख्येति यावत् ।
तस्य तादात्म्यस्यैव निषेधात् अभावबोधनादित्यर्थः ॥ अयमाशयः । यादृशशब्दाद्यादृशार्थस्य बोधस्तादृशशब्दोल्लिखितप्रतीतौ तादृशार्थ एव भासते । नञ्समभिव्याहारे यत्र यादृशधर्मः प्रतीयते नञ्समभिव्याहारे तत्र तदभावो बुध्यते । तथाच मयि निर्दुःखत्वमस्तीत्यादौ धर्मिणि निर्दुःखत्वभानात्तदभावस्यैव निर्दुःखत्वं नास्तीत्यादौ भानसम्भवः ॥
न च मयि निर्दुःखत्वमस्तीत्यादिशब्दान्निर्दुःखत्वादौ धर्मिनिरूपितास्तित्वस्यैव बोधात् कथमुक्तप्रतीतौ धर्मिणि निर्दुःखत्वभानमिति वाच्यम् । निर्दुःखत्वे धर्मिनिरूपितास्तित्वभाने धर्मिणि निर्दुःखत्वभानस्याप्यनुभवसिद्धत्वात् ॥
एवमहं निर्दुःख इत्यादौ धर्मिणि निर्दुःखतादात्म्यभानात् तदभावस्यैव नाहं निर्दुःख इत्यादौ भानमित्युक्तान्योन्याभावस्य प्रत्यक्षत्वमावश्यकम् । तादात्म्यनिषेधस्यैवान्योन्याभावत्वात् । न च निर्दुःखतादात्म्यस्य निर्दुःखत्वरूपतया तदत्यन्ताभाव एवायमिति वाच्यम् । तादात्म्यत्वेन तादात्म्यनिषेधस्यान्योन्याभावत्वात् । एवं नाहं निर्दुःख इत्यादौ निर्दुःखप्रतियोगिकत्वेन भासमानभेदे तत्तादात्म्यप्रतियोगिकत्वमपि भासते । निर्दुःखत्वं नास्तीत्यादौ तु न तथेति नैकविषयत्वमिति ध्येयम् ॥
नन्वस्तु जीवेश्वरभेदप्रत्यक्षम् । किं त्वप्रमाणमेव । दर्शितप्रमाणबाधितत्वादित्यत आह – प्रत्यक्षप्रामाण्यमिति ॥ सुदृढमुपपादितं मानान्तराबाध्यत्वेनोपपादितं न्यायामृतादौ । अन्यथा वह्निरनुष्णः कृतकत्वादित्यादौ बाधोच्छेदापत्तेरिति भावः । अस्यार्थस्य पूर्वाचार्यैरेवोक्तत्वादुक्तमित्यनुक्त्वोपपादितमित्युक्तम् । जीवेशाभेदप्रत्यक्षं तु नास्त्येवेति वक्ष्यते । यद्वा, प्रकृतस्य जीवेश्वरभेदप्रत्यक्षस्यैव प्रामाण्यं सुदृढमव्यभिचार्यमुपपादितम् । अस्य साक्षिप्रत्यक्षत्वात् साक्षिणश्च नियतप्रामाण्यकत्वादिति भावः ॥