Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सप्रतियोगिकपदार्थप्रत्यक्षे प्रतियोगिप्रत्यक्षस्याकारणत्वविचारः

§34Mūla
एतेनाभावप्रत्यक्षयोग्यतायाः प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादयोग्येश्वरप्रतियोगिकान्योन्याभावस्य कथं योग्यतेति निरस्तम् । स्तम्भः पिशाचो न भवति इत्यनुभवात् । अन्योन्याभावविषयत्वात्तस्य । एवं यज्ञमित्रप्रतियोगिको विष्णुमित्रधर्मिको भेदो विष्णुमित्रस्य, विष्णुमित्रप्रतियोगिको देवदत्तधर्मिको भेदो देवदत्तस्य प्रत्यक्ष इत्याद्यूह्यम् ॥
चतुर्थं तृतीयदोषातिदेशेन दूषयति – एतेनेति ॥ एतदेव विवृणोति – स्तम्भ इति ॥ 'प्रतियोगिनः पिशाचस्यायोग्यत्वेऽपि' इत्यादिः । इत्यनुभवात् इत्याकारकप्रत्यक्षजननात् । तथाच तत्र व्यभिचारेण योग्यानुपलब्धेरभावप्रत्यक्षसामान्यहेतुत्वासम्भवान्नाभावयोग्यतायाः प्रतियोगियोग्यताधीनत्वमिति भावः । यद्वा, ननु पिशाचभेदप्रत्यक्षमेव नास्तीति नोक्तव्यभिचार इत्यत आह – स्तम्भ इतिइत्यनुभवात् इति प्रत्यक्षस्यानुभवसिद्धत्वात् । अन्यथाऽनुभवविरोध इति भावः । ननु पिशाचो न भवतीति प्रतीतिः तद्विरोधविषयैवास्तु । विरोधस्यापि नञर्थत्वादत आह– अन्योन्याभावेति ॥ अर्थान्तरानुपस्थितावापि तस्यानुभवसिद्धत्वादिति भावः । ...प्रयोजकमिति वाच्यम् । स्तम्भे पिशाचत्वात्यन्ताभावस्य वायावुद्भूतरूपवद्भेदस्य च प्रत्यक्षानुपपत्तेरिति चेन्न । अनुभवानुसारेण तत्तदभावत्वस्यैव तत्तद्योग्यताप्रयोजकत्वात् ॥ विष्णुमित्रस्येति ॥ नाहं यज्ञमित्र इत्याद्यनुभवादिति भावः । इत्यादीत्यादिना सर्वस्यापि स्वधर्मिकस्वेतरप्रतियोगिकभेदः स्वप्रत्यक्ष इत्येतत्परिग्रहः ॥

Loading…